[PDF] श्री राम रक्षा स्तोत्र | Sri Ram Raksha Stotra PDF Hindi | Sanskrit. श्री राम रक्षा स्तोत्र | Sri Ram Raksha Stotra PDF Hindi | Sanskrit

[PDF] श्री राम रक्षा स्तोत्र | Sri Ram Raksha Stotra PDF Hindi | Sanskrit. श्री राम रक्षा स्तोत्र | Sri Ram Raksha Stotra PDF Hindi | Sanskrit

 

श्री राम रक्षा स्तोत्र | Sri Ram Raksha Stotra Hindi | Sanskrit PDF Download श्री राम रक्षा स्तोत्र | Sri Ram Raksha Stotra in Hindi | Sanskrit PDF download link is available below in the article, download PDF of श्री राम रक्षा स्तोत्र | Sri Ram Raksha Stotra in Hindi |  श्री राम रक्षा स्तोत्र | Sri Ram Raksha Stotra PDF Hindi | Sanskrit.

 

Sri Ram Raksha Stotra PDF & lyrics

Sri Ram Raksha Stotra PDF & lyrics

श्रीरामरक्षा स्त्रोत

॥ ॐ श्री गणेशाय नमः ॥

अस्य श्रीरामरक्षास्तोत्रमंत्रस्य बुधकौशिक ऋषिः श्रीसीतारामचंद्रो देवता अनुष्टुप छंदः सीता शक्तिः श्रीमद हनुमान कीलकम श्रीरामचन्द्र प्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ||

|| अथ ध्यानम ||

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थम, पीतं वासो वसानं

नवकमलदलस्पर्धिनेत्रं प्रसन्ननम, वामांकारूढ़ सीतामुखकमलमिल्ललोचनं नीरदाभम, नानालंकारदीप्तं

दधतमुरुजटामंडनं रामचंद्रम ||

॥ इति ध्यानम ||

चरितं रघुनाथस्य शतकोटि प्रविस्तरम्। एकैकमक्षरं पुंसां

महापातकनाशनम् ॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । जानकीलक्ष्मणोपेतं

जटामुकुटमण्डितं ||

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम्। स्वलीलया जगत्रातुं आविर्भूतम

अजं विभुम् ॥

रामरक्षां पठेतप्राज्ञः पापघ्नीं सर्वकामदाम् । शिरोमे राघवः पातु भालं

दशरथात्मजः ||

कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती । घ्राणं पातु मखत्राता मुखं

सौमित्रिवत्सलः ||

जिह्वां विद्यानिधिः पातु कंठं भरतवन्दितः । स्कन्धौ दिव्यायुधः पातु भुजौ

भग्नेशकार्मुकः ॥

सीतापतिः पातु हृदयं जामदग्न्यजित । मध्यं पातु खरध्वंसी नाभिं

जाम्बवदाश्रयः ||

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः | उरु रघूत्तमः पातु

रक्षःकुलविनाशकृता ||

जानुनी सेतुक्रित्पातु जंघे दशमुखान्तकः । पादौ विभीषणश्रीदः पातु

रामोखिलं वपुः ॥

एतां रामबलोपेतां रक्षां यः सुकृति पठेत । स चिरायुः सुखी पुत्री विजयी

विनयी भवेत् ॥

पातालभूतलव्योमचारिणश्छद्मचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं

रामनामभिः ॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन । नरो न लिप्यते पापैः भुक्तिं

मुक्तिं च विन्दति ||

जगतजैत्रैकमंत्रेण रामनाम्नाभिरक्षितम् । यः कण्ठे धारयेत्तस्य करस्थाः

सर्वसिद्धयः॥

वज्रपंजरनामेदं यो रामकवचं स्मरेत

। अव्याहताज्ञः सर्वत्र लभते

जयमंगलम् ॥

आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हरः । तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥

आरामः कल्पवृक्षाणां विरामः सकलापदाम् | अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः ||

तरुणौ रूपसंम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ

चीरकृष्णाजिनाम्बरौ ||

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौ

रामलक्ष्मणौ ॥

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् । रक्षःकुलनिहन्तारौ त्रायेतां नो

रघूत्तमौ ॥

आत्तसज्जधनुषाविषुस्पृशा वक्षयाशुगनिषंगसंगिनौ । रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम ||

सन्नद्धः कवची खड्गी चापबाणधरो युवा । गच्छन्मनोरथोस्माकं रामः

पातु सलक्ष्मणः ||

रामोदाशरथिः शूरो लक्ष्मणानुचरो बली । काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ||

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः | जानकीवल्लभः श्रीमान अप्रमेय

पराक्रमः ||

इत्येतानि जपननित्यं मद्भक्तः श्रद्धयान्वितः । अश्वमेधाधिकं पुण्यं

संप्राप्नोति न संशयः ||

रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम | स्तुवन्ति नामभिर्दिव्यैः न ते

संसारिणो नरः ॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं । काकुत्स्थं करुणार्णवं

गुणनिधिं विप्रप्रियं धार्मिकम || राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिम | वन्दे लोकाभिरामं

रघुकुलतिलकं राघवं रावणारिम ||

रामाय रामभद्राय रामचंद्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये

नमः॥

श्रीराम राम रघुनन्दन राम राम । श्रीराम राम भरताग्रज राम राम || श्रीराम राम रणकर्कश राम राम । श्रीराम राम शरणं भव राम राम || श्रीरामचन्द्रचरणौ मनसा स्मरामि | श्रीरामचंद्रचरणौ वचसा गृणामि || श्रीरामचन्द्रचरणौ शिरसा नमामि | श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ||

माता रामो मत्पिता रामचंद्रः । स्वामी रामो मत्सखा रामचंद्रः ॥ सर्वस्वं मे रामचंद्रो दयालुः । नान्यं जाने नैव जाने न जाने || दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा । पुरतो मारुतिर्यस्य तं वंदे

रघुनंदनम ||

लोकाभिरामं रणरंगधीरम राजीवनेत्रं रघुवंशनाथम | कारुण्यरूपं करुणाकरणतम श्रीराम चरणं शरणं प्रपद्ये ||

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम | वातात्मजं

वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये || कूजन्तं रामरामेति मधुरं मधुराक्षरम | आरुह्य कविताशाखां वन्दे

वाल्मीकिकोकिलम ||

आपदां अपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो

नमाम्यहम् ॥

भर्जनं भवबीजानाम अर्जनं सुखसम्पदाम् । तर्जनं यमदूतानां राम रामेति गर्जनम् ॥

रामो राजमणिः सदा विजयते रामं रमेशं भजे | रामेणाभिहता T निशाचरचमू रामाय तस्मै नमः ||

रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं । रामे चित्तलयः सदा भवतु मे भो राम मामुद्धराः || राम रामेति रामेति रमे रामे मनोरमे । सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥

|| इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णं ॥

|| श्रीसीतारामचंद्रार्पणमस्तु ||

PDF Download 

 

 

 

 

 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top